वाल्मीकिरामायणोक्त राष्ट्रसमृ़़द्धेरपरिहार्यघटकं-राष्ट्रभक्तिः
Abstract
साम्प्रतं देशे भक्ति-भक्त-शब्दावतिशयेन प्रचलितौ स्तः, किन्तु दुर्भाग्यमिदमस्ति यदिमावुत्कृष्टार्थौ शब्दौ केनचिद् व्यक्तिविशेषेण सम्बध्य अनयोरर्थापकर्षस्य अर्थसंकोचस्य च कुत्सितः प्रयासो विधीयते। यथार्थतः भक्तिस्तु मूलतः एका सम्पूर्णविचारधारा, एकासामूहिकी चेतनाऽस्ति। इयमेका ईदृशी भावनास्ति या बहुविधभेदभावान्, दमयित्वा तत्सम्बद्ध जनान् एकसूत्रेण सततं बध्नाति, अपरतश्चतांस्तथाविधजनेभ्यो विश्लेषयति ये तत्कोटौ सन्त्येव नहि। एषैवभक्तिर्यदा जनसमूहस्य पारस्परिक सहयोगाय समुन्नत्यभिलाषया प्रेरित-भूभागाय प्रेमगर्वरूपेण परिणमेत् तदा सा राष्ट्रभक्तिरुच्यते। डाॅ॰ जी॰ डी॰ तिवारिमहाभागो राष्ट्रियतां परिभाषमाण आह-‘राष्ट्रियता’ शब्दो राष्ट्रशब्दस्य भाववाचिका संज्ञाऽस्ति, यस्यार्थः-‘जनसमुदायस्य सामूहिकी चेतना’ इत्यस्ति। जनसमुदायस्य सामूहिक चेतनायामनेक तŸवानि सम्मिलितानि सन्ति-यथा जनसमूहस्य ऐक्य, तस्मिन् जनसमूहे भौगोलिकमैक्यम्, सामूहिक-सुरक्षा भावना, तथा च सर्वसामूहिकजनेषु वैचारिकसाम्यास्तित्वम्। एतादृशैक्य भावसमन्वित जनसमुदायस्य सामूहिक चेतनैव ‘राष्ट्रियता’1इत्युच्यते। एषैव राष्ट्रियता-भावना राष्ट्रभक्तिरस्ति।स्वकीय-राष्ट्रियभूमिर्जनसमूहः, संस्कृति-सभ्यतेतिहास-धर्म-साहित्य-कला-राजनीति-जीवनदर्शनादीनि प्रति लोकानां मनसि गरिमा-महिम्नोर्य एको नैसर्गिकः स्वाभिमानो जायते तत्सर्वमेव राष्ट्रभक्तिस्वरूपमभिमतम्।एषैव सा भावना यस्या वशीभूताः जनाः स्वराष्ट्रायस्वकीयं सर्वस्वं समर्पयन्ति। इदमविस्मरणीयं रोमांचकारि बलिदानं यथा प्रबलादम्य-भावनया प्रेरितं भवति सा भावना राष्ट्रभक्तिरेवास्ति।अस्मिन् शोधपत्रे राष्ट्रियता का ? राष्ट्रभक्तिः का ? वाल्मीकि रामायणोक्त राष्ट्रभक्तः राजा कथम् भवेत् ? राष्ट्रस्य सुरक्षा कथम् भवेत् ? राष्ट्रभक्तमानवानां स्वसंस्कृतौ स्नेहभावनादि बिन्दुभिः राष्ट्रभक्तिः कथम् देशस्य समृद्धेः हेतोः आवश्यकी ? अयमेव अस्य शोधपत्रस्य विषयास्ति।